|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.108. अध्यायः 108
Mahabharata - Drona Parva - Chapter Topics
द्रौपदेयैः शलवधः॥ 1 ॥ भीमसेनेनालम्बुसपराजयः॥ 2 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-108-0x(4536)(48989)
द्रौपदेयान्महेष्वासान्सौमदत्तिर्महायशाः।
एकैकं पञ्चभिर्विद्व्वा पुनर्विव्याध सप्तभिः॥ 7-108-1(48990)
ते पीडिता भृशं तेन रौद्रेण सहसा विभो।
प्रमूढा नैव विविदुर्मृधे कृत्यं स्म किंचन॥ 7-108-2(48991)
नाकुलिश्च शतानीकः सौमदत्तिं नरर्षभम्।
द्वाभ्यां विद्व्वाऽनदद्वृष्टः शराभ्यां शत्रुकर्शनः॥ 7-108-3(48992)
तथेतरे रणे यत्तास्त्रिभिस्त्रिभिरजिह्मगैः।
विव्यधुः समरे तूर्णं सौमदत्तिममर्षणम्॥ 7-108-4(48993)
स तान्प्रति महाराज पञ्च चिक्षेप सायकान्।
एकैकं हृदि चाजघ्ने एकैकेन महायशाः॥ 7-108-5(48994)
ततस्ते भ्रातरः पञ्च शरैर्विद्धा महात्मना।
परिवार्य रणे वीरं विव्यधुः सायकैर्भृशम्॥ 7-108-6(48995)
अर्जुनिस्तु हयांस्तस्य चतुर्भिर्निशितैः शरैः।
प्रेषयामास सङ्क्रुद्धो यमस्य सदनं प्रति॥ 7-108-7(48996)
भैमसेनिर्धनुश्छित्त्वा सौमदत्तेर्महात्मनः।
ननाद बलवन्नादं विव्याध च शितैः शरैः॥ 7-108-8(48997)
यौधिष्ठिरिर्ध्वजं तस्य च्छित्त्वा भूमावपातयत्।
नाकुलिश्चाथ यन्तारं रथनीडादपाहरत्॥ 7-108-9(48998)
साहदेविस्तु तं ज्ञात्वा भ्रातृभिर्विमुखीकृतम्।
क्षुरप्रेण शिरो राजन्निचकर्त महात्मनः॥ 7-108-10(48999)
तच्छिरो न्यपतद्भूतौ तपनीयविभूषितम्।
अभासयद्रुणोद्देशं बालसूर्यसमप्रभम्॥ 7-108-11(49000)
सौमदत्तेः शिरो दृष्ट्वा निपतत्तन्महात्मनः।
वित्रस्तास्तावका राजन्प्रदुद्रुवुरनेकधा॥ 7-108-12(49001)
अलम्बुसस्तु समरे भीमसेनं महाबलम्।
योधयामस सङ्क्रुद्धो लक्ष्मणं रावणिर्यथा॥ 7-108-13(49002)
सम्प्रयुद्धौ रमे दृष्ट्वा तावुभौ नरराक्षसौ।
विस्मयः सर्वभूतानां भयं चासीत्सुदारुणम्॥ 7-108-14(49003)
आर्श्यशृङ्गिं ततो भीमो नवभिर्निशितैः शरैः।
विव्याध प्रहसन्राजन्राक्षसेन्द्रममर्षणम्॥ 7-108-15(49004)
तद्रक्षः समरे विद्धं कृत्वा नादं भयावहम्।
अभ्यद्रवत्ततो भीमं ये च तस्य पदानुगाः॥ 7-108-16(49005)
स भीमं पञ्छभिर्विद्व्वा शरैः सन्नतपर्वभिः।
भैमान्परिजघानाशु रथांस्त्रिशतमाहवे।
पुनश्चतुःशतान्हत्वा भीमं विव्याध पत्रिणा॥ 7-108-17(49006)
सोऽतिविद्धस्तथा भीमो राक्षसेन महाबलः।
निषसाद रथोपस्थे मूर्च्छयाऽभिपरिप्लुतः॥ 7-108-18(49007)
प्रतिलभ्य ततः संज्ञां मारुतिः क्रोधमूर्च्छितः।
विकृष्य कार्मुकं घोरं भारसाधनमुत्तमम्।
अलम्बुसं शरैस्तीक्ष्णैरर्दयामास सर्वतः॥ 7-108-19(49008)
स विद्धो बहुभिर्बाणैर्नीलाञ्जनचयोपमः।
शुशुभे सर्वतो राजन्प्रफुल्ल इव किंशुकः॥ 7-108-20(49009)
स वध्यमानः समरे भीमचापच्युतैः शरैः।
स्मरन्भ्रातृवधं चैव पाण्डवेन महात्मना।
घोरं रूपमथो कृत्वा भीमसेनमभाषत॥ 7-108-21(49010)
तिष्ठेदानीं रणे पार्थ पश्य मेऽद्य पराक्रमम्॥
बाको नाम सुदुर्बुद्धे राक्षसप्रवरो बली। 7-108-22(49011)
परोक्षं मम तद्वृत्तं यद्धाता मे हतस्त्वया॥ 7-108-23(49012)
सञ्जय उवाच। 7-108-24x(4537)
एवमुक्त्वा ततो भीममन्तर्धानं गतस्तदा।
महता शरवर्षेण भृशं तं समवाकिरत्॥ 7-108-24(49013)
भीमस्तु समरे राजन्नदृश्ये राक्षसे तदा।
आकाशं पूरयामास शरैः सन्नतपर्वभिः॥ 7-108-25(49014)
स वध्यमानो भीमेन निमेषाद्रथमास्थितः।
जगाम धरणीं चैव क्षुद्रः खं सहसाऽगमत्॥ 7-108-26(49015)
उच्चावचानि रूपाणि चकार सुबहूनि च।
अणुर्बृहत्पुनः स्थूलो नादान्मुञ्चन्निवाम्बुदः॥ 7-108-27(49016)
[निपेतुर्गगनाचत्चैव शरधाराः सहस्रशः।
शक्तयः कणपाः प्रासाः शूलपट्टसतोमराः॥ 7-108-28(49017)
शतघ्न्यः परिघाश्चैव भिण़्डिपालाः परश्वथाः।
शिलाः खङ्घा गुडाश्चैव ऋष्टीर्वज्राणि चैव ह॥ 7-108-29(49018)
सा राक्षसविसृष्टा तु शस्त्रवृष्टिः सुदारुणा।
जघान पाण्डुपुत्रस्य सैनिकान्रणमूर्धनि॥] 7-108-30(49019)
उच्चावचास्तथा वाचो व्याजहार समन्ततः।
तेन पाण्डवसैन्यानां सूदिता युधि वारणाः॥ 7-108-31(49020)
हयाश्च बहवो राजन्पत्तयश्च तथा पुनः।
रथेभ्यो रथिनः पेतुस्तस्य नुन्नाः स्म सायकैः॥ 7-108-32(49021)
शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम्।
छत्रहंसां कर्दमिनीं बाहुपन्नगसङ्कुलाम्॥ 7-108-33(49022)
नदीं प्रवर्तयामास रक्षोगणसमाकुलाम्।
वहन्तीं बहुधा राजंश्चेदिपाञ्चालसृञ्जयान्॥ 7-108-34(49023)
तं तथा समरे राजन्विचरन्तमभीतवत्।
पाण्डवा भृशसंविग्नाः प्रापश्यंस्तस्य विक्रमम्॥ 7-108-35(49024)
तावकानां तु सैन्यानां प्रहर्षः समजायत।
वादित्रनिनदश्चोग्रः सुमहान्रोमहर्षणः॥ 7-108-36(49025)
तं श्रुत्वा निनदं घोरं तव सैन्यस्य पाण्डवः।
नामृष्यत यथा नागस्तलशब्दं समीरितम्॥ 7-108-37(49026)
ततः क्रोधाभिताम्राक्षो निर्दहन्निव पावकः।
सन्दधे त्वाष्ट्रमस्त्रं स स्वयं त्वष्टेव मारुतिः॥ 7-108-38(49027)
ततः शरसहस्राणि प्रादुरासन्समन्ततः।
तैः शरैस्तव सैन्यस्य विद्रवः सुमहानभूत्॥ 7-108-39(49028)
तदस्त्रं प्रेरितं तेन भीमसेनेन संयुगे।
राक्षसस्य महामायां हत्वा राक्षसमार्दयत्॥ 7-108-40(49029)
स वध्यमानो बहुधा भीमसेनेन राक्षसः।
सन्त्यज्य समरे भीमं द्रोणानीकमुपाद्रवत्॥ 7-108-41(49030)
तस्मिंस्तु निर्जिते राजन्राक्षसेन्द्रे महात्मना।
अनादयन्सिंहनादैः पाण्डवाः सर्वतो दिशम्॥ 7-108-42(49031)
अपूजयन्मारुतिं च संहृष्टास्ते महाबलम्।
प्रहादमिव दैतेया यथा शक्रं मरुद्गणाः॥ ॥ 7-108-43(49032)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे अष्टाधिकशततमोऽध्यायः॥ 108 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-108-12 सौमदत्तेः शलस्य॥ 5-108-27 बृहत् बृहन्॥ 5-108-28 कुण्डलितः पाठो ङ. झ.ञ. पुस्तकेषु दृश्यते॥ 5-108-29 ऋष्टीः ऋष्टयः॥ 5-108-108 अष्टाधिकशततमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|